|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.237. अध्यायः 237
Mahabharata - Vana Parva - Chapter Topics
कस्माच्चिद्ब्राह्मणात्पाण्डववृत्तान्तं श्रुतवता धृतराष्ट्रेण पाण्डवान्प्रति परिशोचनम् ॥ 1 ॥ तथा पाण्डवपराक्रमानुस्मरणेन स्वपुत्राणां भाविवधनिर्धारणपूर्वकं तान्प्रति परिशोचनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
जनसेजय उवाच। 3-237-0x(2586)(25251)
एवं वने वर्तमाना नराग्र्याः
शीतोष्णवातातपकर्शिताङ्गाः।
सरस्तदासाद्यवनं च पुण्यं
ततः परंकिमकुर्वन्त पार्थाः ॥ 3-237-1(25252)
वैशम्पायन उवाच। 3-237-2x(2587)
सरस्तदासाद्य तु पाण्डुपुत्रा
जनं समुत्सृज्य विधाय चेष्टम्।
वनानि रम्याण्यथ पर्वतांश्च
नदीप्रदेशांश्च तदा विचेरुः ॥ 3-237-2(25253)
तथा वने तान्वसतः प्रवीरान्
स्वाध्यायवन्तश्च तपोधनाश्च।
अभ्याययुर्वेदविदः पुराणा-
स्तान्पूजयामासुरथो नराग्र्याः ॥ 3-237-3(25254)
ततः कदाचित्कुशलः कथासु
विप्रोऽभ्यगच्छद्भुवि कौरवेयान्।
स तैः समेत्याथ यदृच्छयैव
वैचित्रवीर्यं नृपमभ्यगच्छत् ॥ 3-237-4(25255)
अथोपविष्टः प्रतिसत्कृतश्च
वृद्धेन राज्ञा कुरुसत्तमेन।
प्रचोदितः संकथयांबभूव
धर्मानिलेन्द्रप्रभवान्यमौ च ॥ 3-237-5(25256)
कृशांश्च वातातपकर्शिताङ्गान्
दुःखस्य चोग्रस् मुखे प्रपन्नान्।
तां चाप्यनाथामिव वीरनाथां
कृष्णां परिक्लेशगुणेन युक्ताम् ॥ 3-237-6(25257)
ततः कथास्तस्य निशम्य राजा
वैचित्रवीर्यः कृपयाऽभितप्तः।
वने तथा पार्थिवपुत्रपौत्रा-
ञ्श्रुत्वा तथा दुःखनदींप्रपन्नान् ॥ 3-237-7(25258)
प्रोवाच दैन्याभिहतान्तरात्मा
निश्वासवातोपहतस्तदानीम्।
वाचं कथंचित्स्थिरतामुपेत्य
तत्सर्वमात्मप्रभवं विचिन्त्य ॥ 3-237-8(25259)
कथंनु सत्यः शुचिरार्यवृत्तः
श्रेष्ठः सुतानां मम धर्मराजः।
अजातशत्रुः पृथिवीतले स्म
शेते पुरा राङ्कवकूटशायी ॥ 3-237-9(25260)
प्रबोध्यते मागधसूतपुत्रै-
र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः।
पतत्रिसङ्घैः स जघन्यरात्रे
प्रबोध्यते नूनमिलातलस्थः ॥ 3-237-10(25261)
कथंनु वातातपकर्शिताङ्गो
वृकोदरः कोपपरिप्लुताङ्गः।
शेते पृथिव्यामतथोचिताङ्गः
कृष्णासमक्षं वसुधातलस्थः ॥ 3-237-11(25262)
तथाऽर्जुनः सुकुमारो मनस्वी
वशे स्थितो धर्मसुतस्य राज्ञः।
विदूयमानैरिव सर्वगात्रै-
र्ध्रुवं न शेते वसतीरमर्षात् ॥ 3-237-12(25263)
यमौ च कृष्णां च युधिष्ठिरं च
भीमं च दृष्ट्वा सुखविप्रयुक्तान्।
विनिःश्वसन्सर्प इवोग्रतेजा
ध्रुवं न शेते वसतीरमर्षात् ॥ 3-237-13(25264)
तथा यमौ चाप्यसुखौ सुखार्हौ
समृद्धरीपावमरौ दिवीव।
प्रजागरस्थौ ध्रुवमप्रशान्तौ
क्रोधेन सत्येन च वार्यमाणौ ॥ 3-237-14(25265)
समीरणेनाथ समो बलेन
समीरणस्यैवसुतो बलीयान्।
स धर्मपासेन सितोऽग्रजेन
ध्रुवं विनिःश्वस्य सहत्यमर्षम् ॥ 3-237-15(25266)
स चापिभूमौ परिवर्तमानो
वधं सुतानां मम काङ्क्षमाणः।
सत्येन धर्मेण च वार्यमाणः
कालंप्रतीक्षत्यधिको रणेऽन्यैः ॥ 3-237-16(25267)
अजातशत्रौ तु जिते निकृत्या
दुःशासनो यत्परुषाण्यवोचत्।
तानि प्रविष्टानि वृकोदराङ्गं
दहन्ति कक्षाग्निरिवेन्धनानि ॥ 3-237-17(25268)
न पापकं ध्यास्यति धर्मपुत्रो
धनंजयश्चाप्यनुवर्त्स्यते तम्।
अरण्यवासेन विवर्धते तु
भीमस्य कोपोऽग्निरिवानिलेन ॥ 3-237-18(25269)
स तेन कोपेन विदीर्यमाणः
करं करेणाभिनिपीड्यवीरः।
विनिःश्वसत्युष्णमतीव घोरं
दहन्निवेमां मम पुत्रसेनाम् ॥ 3-237-19(25270)
गाण्डीवधन्वा च वृकोदरश्च
संरम्भिणावन्तककालकल्पौ।
न शेषयेतां युधि शत्रुसेनां
शरान्किरन्तावनिप्रकाशान् ॥ 3-237-20(25271)
दुर्योधनः शकुनिः सूतपुत्रो
दुःशासनश्चापि सुमन्दचेताः।
मधु प्रपश्यन्ति न तु प्रपातं
वृकोदरं चैव धनंजयं च ॥ 3-237-21(25272)
शुभाशुभं कर्म नरोहि कृत्वा
प्रतीक्षतेचेत्स फलंविपाके।
सतेन युज्यत्यवशः फलेन
मोक्षः कथं स्यात्पुरुषस्य तस्मात् ॥ 3-237-22(25273)
क्षेत्रे सुकृष्टे ह्युपिते च बीजे
देवेच वर्षत्यृतुकालयुक्तम्।
न स्यात्फलंतस्य कुतः प्रसिद्धि-
रन्यत्रदैवादिति नास्ति हेतुः ॥ 3-237-23(25274)
कृतं मताक्षेण यथा न साधु
साधुप्रवृत्तेन च पाण्डवेन।
मया च दुष्पुत्रवशानुगेन
कृतः कुरूणामयमन्तकालः ॥ 3-237-24(25275)
ध्रुवं प्रशाम्यत्यसमीरितोऽग्नि-
र्ध्रुवं प्रजास्यत्युत गर्भिणी या।
ध्रुवं दिनादौ रजनीप्रणाश-
स्तथा क्षपादौ च दिनप्रणाशः ॥ 3-237-25(25276)
कृतेच कस्मान्न परेच कुर्यु-
र्दत्ते च दद्युः पुरुषाः कथंस्वित्।
प्राप्यार्थकालं च भवेदनर्थः
कथंचन स्यादितितत्कुतः स्यात् ॥ 3-237-26(25277)
कथं न भिद्येत न च स्रवेत
न च प्रसिच्येदितिरक्षितव्यम्।
अरक्ष्यमाणं शतधा प्रकीर्ये-
द्भ्रुवं न नाशोऽस्ति कृतस्य लोके ॥ 3-237-27(25278)
गतो ह्यरण्यादपिशक्रलोकं
धनंजयः पशय्त वीर्यमस्य।
अस्त्राणि दिव्यानि चतुर्विधानि
ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ॥ 3-237-28(25279)
स्वर्गं हि गत्वा सशरीर एव
को मानुषः पुनरागन्तुमिच्छेत्।
अन्यत्रकालोपहताननेका-
न्समीक्षमाणस्तुकुरून्मुमूर्षून् ॥ 3-237-29(25280)
धनुर्ग्राहश्चार्जुनः सव्यसाची
धनुश्च तद्गाण्डिवं भीमवेगम्।
अस्त्राणि दिव्यानि च तानि तस्य
त्रयस्य तेजः प्रसहेत कोऽत्र ॥ 3-237-30(25281)
निशम्य तद्वचनं पार्थिवस्य
दुर्योधनं रहिते सौबलोऽथ।
अबोधयत्कर्णमुपेत्य सर्वं
स चाप्यहृष्टोऽभवदल्पचेताः ॥ 3-237-31(25282)
इति श्रीमन्महाभारते अरण्यपर्वणि धोषयात्रापर्वणि सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ 237 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-237-1 सरो द्वैतवनस्थम् ॥ 3-237-2 जनं समुदायम् ॥ 3-237-3 वने द्वैतवने ॥ 3-237-4 नृप धृतराष्ट्रम् ॥ 3-237-9 रङ्कोर्मृगविशेषस्य लोमराशिमयीतूलिका राङ्कवकूटम् ॥ 3-237-13 उग्रतेजा अर्जुनः ॥ 3-237-14 प्रजागरस्थौ भुवि शयाते इति शेषः ॥ 3-237-16 अन्यैः अन्येभ्यः अधिकः ॥ 3-237-23 उपिते न्युप्ते। एवं मच्चित्ते दुर्योधनादीनां च चित्ते वृद्धहितोपदेशो वृथा भवतीति भावः ॥ 3-237-24 मताक्षेण शकुनिना पाण्डवेन च तदानीमेव तान् अविघ्नता ॥ 3-237-25 प्रजास्यति अपत्यं अनयिष्यति। क्षपादौ रात्र्यादौ। एतस् पापस्य फलं अपरिहार्यमिति भावः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|