(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.237. अध्यायः 237
Mahabharata - Vana Parva - Chapter Topics
कस्माच्चिद्ब्राह्मणात्पाण्डववृत्तान्तं श्रुतवता धृतराष्ट्रेण पाण्डवान्प्रति परिशोचनम् ॥ 1 ॥ तथा पाण्डवपराक्रमानुस्मरणेन स्वपुत्राणां भाविवधनिर्धारणपूर्वकं तान्प्रति परिशोचनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

जनसेजय उवाच। 3-237-0x(2586)(25251)
एवं वने वर्तमाना नराग्र्याः
शीतोष्णवातातपकर्शिताङ्गाः।
सरस्तदासाद्यवनं च पुण्यं
ततः परंकिमकुर्वन्त पार्थाः ॥ 3-237-1(25252)
वैशम्पायन उवाच। 3-237-2x(2587)
सरस्तदासाद्य तु पाण्डुपुत्रा
जनं समुत्सृज्य विधाय चेष्टम्।
वनानि रम्याण्यथ पर्वतांश्च
नदीप्रदेशांश्च तदा विचेरुः ॥ 3-237-2(25253)
तथा वने तान्वसतः प्रवीरान्
स्वाध्यायवन्तश्च तपोधनाश्च।
अभ्याययुर्वेदविदः पुराणा-
स्तान्पूजयामासुरथो नराग्र्याः ॥ 3-237-3(25254)
ततः कदाचित्कुशलः कथासु
विप्रोऽभ्यगच्छद्भुवि कौरवेयान्।
स तैः समेत्याथ यदृच्छयैव
वैचित्रवीर्यं नृपमभ्यगच्छत् ॥ 3-237-4(25255)
अथोपविष्टः प्रतिसत्कृतश्च
वृद्धेन राज्ञा कुरुसत्तमेन।
प्रचोदितः संकथयांबभूव
धर्मानिलेन्द्रप्रभवान्यमौ च ॥ 3-237-5(25256)
कृशांश्च वातातपकर्शिताङ्गान्
दुःखस्य चोग्रस् मुखे प्रपन्नान्।
तां चाप्यनाथामिव वीरनाथां
कृष्णां परिक्लेशगुणेन युक्ताम् ॥ 3-237-6(25257)
ततः कथास्तस्य निशम्य राजा
वैचित्रवीर्यः कृपयाऽभितप्तः।
वने तथा पार्थिवपुत्रपौत्रा-
ञ्श्रुत्वा तथा दुःखनदींप्रपन्नान् ॥ 3-237-7(25258)
प्रोवाच दैन्याभिहतान्तरात्मा
निश्वासवातोपहतस्तदानीम्।
वाचं कथंचित्स्थिरतामुपेत्य
तत्सर्वमात्मप्रभवं विचिन्त्य ॥ 3-237-8(25259)
कथंनु सत्यः शुचिरार्यवृत्तः
श्रेष्ठः सुतानां मम धर्मराजः।
अजातशत्रुः पृथिवीतले स्म
शेते पुरा राङ्कवकूटशायी ॥ 3-237-9(25260)
प्रबोध्यते मागधसूतपुत्रै-
र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः।
पतत्रिसङ्घैः स जघन्यरात्रे
प्रबोध्यते नूनमिलातलस्थः ॥ 3-237-10(25261)
कथंनु वातातपकर्शिताङ्गो
वृकोदरः कोपपरिप्लुताङ्गः।
शेते पृथिव्यामतथोचिताङ्गः
कृष्णासमक्षं वसुधातलस्थः ॥ 3-237-11(25262)
तथाऽर्जुनः सुकुमारो मनस्वी
वशे स्थितो धर्मसुतस्य राज्ञः।
विदूयमानैरिव सर्वगात्रै-
र्ध्रुवं न शेते वसतीरमर्षात् ॥ 3-237-12(25263)
यमौ च कृष्णां च युधिष्ठिरं च
भीमं च दृष्ट्वा सुखविप्रयुक्तान्।
विनिःश्वसन्सर्प इवोग्रतेजा
ध्रुवं न शेते वसतीरमर्षात् ॥ 3-237-13(25264)
तथा यमौ चाप्यसुखौ सुखार्हौ
समृद्धरीपावमरौ दिवीव।
प्रजागरस्थौ ध्रुवमप्रशान्तौ
क्रोधेन सत्येन च वार्यमाणौ ॥ 3-237-14(25265)
समीरणेनाथ समो बलेन
समीरणस्यैवसुतो बलीयान्।
स धर्मपासेन सितोऽग्रजेन
ध्रुवं विनिःश्वस्य सहत्यमर्षम् ॥ 3-237-15(25266)
स चापिभूमौ परिवर्तमानो
वधं सुतानां मम काङ्क्षमाणः।
सत्येन धर्मेण च वार्यमाणः
कालंप्रतीक्षत्यधिको रणेऽन्यैः ॥ 3-237-16(25267)
अजातशत्रौ तु जिते निकृत्या
दुःशासनो यत्परुषाण्यवोचत्।
तानि प्रविष्टानि वृकोदराङ्गं
दहन्ति कक्षाग्निरिवेन्धनानि ॥ 3-237-17(25268)
न पापकं ध्यास्यति धर्मपुत्रो
धनंजयश्चाप्यनुवर्त्स्यते तम्।
अरण्यवासेन विवर्धते तु
भीमस्य कोपोऽग्निरिवानिलेन ॥ 3-237-18(25269)
स तेन कोपेन विदीर्यमाणः
करं करेणाभिनिपीड्यवीरः।
विनिःश्वसत्युष्णमतीव घोरं
दहन्निवेमां मम पुत्रसेनाम् ॥ 3-237-19(25270)
गाण्डीवधन्वा च वृकोदरश्च
संरम्भिणावन्तककालकल्पौ।
न शेषयेतां युधि शत्रुसेनां
शरान्किरन्तावनिप्रकाशान् ॥ 3-237-20(25271)
दुर्योधनः शकुनिः सूतपुत्रो
दुःशासनश्चापि सुमन्दचेताः।
मधु प्रपश्यन्ति न तु प्रपातं
वृकोदरं चैव धनंजयं च ॥ 3-237-21(25272)
शुभाशुभं कर्म नरोहि कृत्वा
प्रतीक्षतेचेत्स फलंविपाके।
सतेन युज्यत्यवशः फलेन
मोक्षः कथं स्यात्पुरुषस्य तस्मात् ॥ 3-237-22(25273)
क्षेत्रे सुकृष्टे ह्युपिते च बीजे
देवेच वर्षत्यृतुकालयुक्तम्।
न स्यात्फलंतस्य कुतः प्रसिद्धि-
रन्यत्रदैवादिति नास्ति हेतुः ॥ 3-237-23(25274)
कृतं मताक्षेण यथा न साधु
साधुप्रवृत्तेन च पाण्डवेन।
मया च दुष्पुत्रवशानुगेन
कृतः कुरूणामयमन्तकालः ॥ 3-237-24(25275)
ध्रुवं प्रशाम्यत्यसमीरितोऽग्नि-
र्ध्रुवं प्रजास्यत्युत गर्भिणी या।
ध्रुवं दिनादौ रजनीप्रणाश-
स्तथा क्षपादौ च दिनप्रणाशः ॥ 3-237-25(25276)
कृतेच कस्मान्न परेच कुर्यु-
र्दत्ते च दद्युः पुरुषाः कथंस्वित्।
प्राप्यार्थकालं च भवेदनर्थः
कथंचन स्यादितितत्कुतः स्यात् ॥ 3-237-26(25277)
कथं न भिद्येत न च स्रवेत
न च प्रसिच्येदितिरक्षितव्यम्।
अरक्ष्यमाणं शतधा प्रकीर्ये-
द्भ्रुवं न नाशोऽस्ति कृतस्य लोके ॥ 3-237-27(25278)
गतो ह्यरण्यादपिशक्रलोकं
धनंजयः पशय्त वीर्यमस्य।
अस्त्राणि दिव्यानि चतुर्विधानि
ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ॥ 3-237-28(25279)
स्वर्गं हि गत्वा सशरीर एव
को मानुषः पुनरागन्तुमिच्छेत्।
अन्यत्रकालोपहताननेका-
न्समीक्षमाणस्तुकुरून्मुमूर्षून् ॥ 3-237-29(25280)
धनुर्ग्राहश्चार्जुनः सव्यसाची
धनुश्च तद्गाण्डिवं भीमवेगम्।
अस्त्राणि दिव्यानि च तानि तस्य
त्रयस्य तेजः प्रसहेत कोऽत्र ॥ 3-237-30(25281)
निशम्य तद्वचनं पार्थिवस्य
दुर्योधनं रहिते सौबलोऽथ।
अबोधयत्कर्णमुपेत्य सर्वं
स चाप्यहृष्टोऽभवदल्पचेताः ॥ 3-237-31(25282)

इति श्रीमन्महाभारते अरण्यपर्वणि धोषयात्रापर्वणि सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ 237 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-237-1 सरो द्वैतवनस्थम् ॥ 3-237-2 जनं समुदायम् ॥ 3-237-3 वने द्वैतवने ॥ 3-237-4 नृप धृतराष्ट्रम् ॥ 3-237-9 रङ्कोर्मृगविशेषस्य लोमराशिमयीतूलिका राङ्कवकूटम् ॥ 3-237-13 उग्रतेजा अर्जुनः ॥ 3-237-14 प्रजागरस्थौ भुवि शयाते इति शेषः ॥ 3-237-16 अन्यैः अन्येभ्यः अधिकः ॥ 3-237-23 उपिते न्युप्ते। एवं मच्चित्ते दुर्योधनादीनां च चित्ते वृद्धहितोपदेशो वृथा भवतीति भावः ॥ 3-237-24 मताक्षेण शकुनिना पाण्डवेन च तदानीमेव तान् अविघ्नता ॥ 3-237-25 प्रजास्यति अपत्यं अनयिष्यति। क्षपादौ रात्र्यादौ। एतस् पापस्य फलं अपरिहार्यमिति भावः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.